वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: वसुश्रुत आत्रेयः छन्द: पङ्क्तिः स्वर: पञ्चमः काण्ड:

सो꣢ अ꣣ग्नि꣡र्यो वसु꣢꣯र्गृ꣣णे꣢꣫ सं यमा꣣य꣡न्ति꣢ धे꣣न꣡वः꣢ । स꣡म꣢꣯र्वन्तो रघु꣣द्रु꣢वः꣣ स꣡ꣳ सु꣢जा꣣ता꣡सः꣢ सू꣣र꣢य꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१७३९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः । समर्वन्तो रघुद्रुवः सꣳ सुजातासः सूरय इषꣳ स्तोतृभ्य आ भर ॥१७३९॥

मन्त्र उच्चारण
पद पाठ

सः꣢ । अ꣣ग्निः꣢ । यः । व꣡सुः꣢꣯ । गृ꣣णे꣢ । सम् । यम् । आ꣣य꣡न्ति꣢ । आ꣣ । य꣡न्ति꣢꣯ । धे꣣न꣡वः꣢ । सम् । अ꣡र्व꣢꣯न्तः । र꣣घुद्रु꣡वः꣢ । र꣣घु । द्रु꣡वः꣢꣯ । सम् । सु꣣जाता꣡सः꣢ । सु꣣ । जाता꣡सः꣢ । सू꣣र꣡यः꣢ । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१७३९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1739 | (कौथोम) 8 » 3 » 10 » 3 | (रानायाणीय) 19 » 3 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर अग्नि नामक जगदीश्वर का वर्णन करते हैं।

पदार्थान्वयभाषाः -

(सः) वही (अग्निः) अग्निशब्दवाच्य जगदीश्वर है, (यः) जो (वसुः) सबको ढकनेवाला अर्थात् सर्वव्यापक है, उसकी मैं (गृणे) स्तुति करता हूँ, (यम्) जिसके पास (धेनवः) स्तोताओं की वाणियाँ (समायन्ति) पहुँचती हैं, (रघुद्रुवः) वेगगामी (अर्वन्तः) पृथिवी, चन्द्र आदि लोक (सम्) पहुँचते हैं, (सुजातासः) सुप्रसिद्ध (सूरयः) विद्वान् लोग (सम्) पहुँचते हैं। हे जगदीश्वर ! आप (स्तोतृभ्यः) आपके गुण-कर्म-स्वभाव की स्तुति करनेवालों को (इषम्) अभीष्ट अभ्युदय और निःश्रेयस रूप फल (आ भर) प्रदान करो ॥३॥

भावार्थभाषाः -

गायें, घोड़े, मनुष्य, सूर्य, चाँद, तारे, पृथिवी, मङ्गल, बुध, बृहस्पति आदि लोक, नदियाँ, पहाड़, समुद्र, झरने, वृक्ष, लताएँ सभी अपने-अपने गुण जिससे पाते हैं, वही अग्निशब्दवाच्य जगदीश्वर है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरप्यग्निनामानं जगदीश्वरं वर्णयति।

पदार्थान्वयभाषाः -

(सः) स एव (अग्निः) अग्निशब्दवाच्यो जगदीश्वरोऽस्ति, (यः वसुः) यः सर्वाच्छादकः सर्वव्यापको वर्तते। [वस्ते आच्छादयति सर्वं स वसुः।] तमहम् (गृणे) स्तौमि, (यम् धेनवः) स्तोतॄणां वाचः। [धेनुरिति वाङ्नाम निघं० १।११।] (समायन्ति) सम्प्राप्नुवन्ति। (रघुद्रुवः) शीघ्रगामिनः (अर्वन्तः) पृथिवीचन्द्रादयो लोकाः (सम्) समायन्ति सम्प्राप्नुवन्ति, (सुजातासः) सुप्रसिद्धाः (सूरयः) विद्वांसः (सम्) समायन्ति, सम्प्राप्नुवन्ति। हे अग्ने जगदीश्वर ! त्वम् (स्तोतृभ्यः) त्वद्गुणकर्मस्वभावकीर्तनपरेभ्यो जनेभ्यः (इषम्) अभीष्टम् अभ्युदयनिःश्रेयसरूपं फलम् (आ भर) आहर ॥३॥२

भावार्थभाषाः -

गावोऽश्वाः मनुष्याः सूर्यचन्द्रनक्षत्रपृथिवीमङ्गलबुधबृहस्पत्यादयो लोकाः नद्यः पर्वताः समुद्रा निर्झरा वृक्षा वीरुधः सर्वेऽपि स्वान् स्वान् गुणान् यस्माद् विन्दन्ति स एवाग्निशब्दवाच्यो जगदीश्वरोऽस्ति ॥३॥